|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.179. अध्यायः 179
(अथ चैत्ररथपर्व ॥ 11 ॥)
Mahabharata - Adi Parva - Chapter Topics
ब्राह्मणगृहे प्रतिश्रयार्थमागतस्य कस्यचिद्ब्राह्मणस्य मुखात् पाण्डवानां द्रौपदीस्वयंवरश्रवणम्॥ 1 ॥
पाण्डवकृतधृष्टद्युन्नद्रौपदीसंभवप्रश्नस्य ब्राह्मणेनोत्तरकथनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
जनमेजय उवाच। 1-179-0x(1028)(8105)
ते तथा पुरुषव्याघ्रा निहत्य बकराक्षसम्।
अत ऊर्ध्वं ततो ब्रह्मन्किमकुर्वत पाण्डवाः॥ 1-179-1(8106)
वैशम्पायन उवाच। 1-179-2x(1029)
तत्रैव न्यवसन्राजन्निहत्य बकराक्षसम्।
अधीयानाः परं ब्रह्म ब्राह्मणस्य निवेशने॥ 1-179-2(8107)
ततः कतिपयाहस्य ब्राह्मणः संशितव्रतः।
प्रतिश्रयार्थी तद्वेश्म ब्राह्मणस्याजगाम ह॥ 1-179-3(8108)
स म्यक् पूजयित्वा तं विप्रं विप्रर्षभस्तदा।
ददौ प्रतिश्रयं तस्मै सदा सर्वातिथिव्रतः॥ 1-179-4(8109)
ततस्ते पाण्डवाः सर्वे सह कुन्त्या नरर्षभाः।
उपासाञ्चक्रिरे विप्रं कथयन्तं कथाः शुभाः॥ 1-179-5(8110)
कथयामास देशांश्च तीर्थानि सरितस्तथा।
राज्ञश्च विविधाश्चर्यान्देशांश्चैव पुराणि च॥ 1-179-6(8111)
स तत्राकथयद्विप्रः कथान्ते जनमेजय।
पञ्चालेष्वद्भुताकारं याज्ञसेन्याः स्वयंवरम्॥ 1-179-7(8112)
धृष्टद्युम्नस्य चोत्पत्तिमुत्पत्तिं च शिखण्डिनः।
अयोनिजत्वं कृष्णाया द्रुपदस्य महामखे॥ 1-179-8(8113)
तदद्भुततमं श्रुत्वा लोके तस्य महात्मनः।
विस्तरेणैव पप्रच्छुः कथां ते पुरुषर्षभाः॥ 1-179-9(8114)
पाण्डवा ऊचुः। 1-179-10x(1030)
कथं द्रुपदपुत्रस्य धृष्टद्युम्नस्य पावकात्।
वेदीमध्याच्च कृष्णायाः संभवः कथमद्भुतः॥ 1-179-10(8115)
कथं द्रोणान्महेष्वासात्सर्वाण्यस्त्राण्यशिक्षत।
`धृष्टद्युम्नो महेष्वासः कथं द्रोणस्य मृत्युदः।'
कथं विप्र सखायौ तौ भिन्नौ कस्य कृतेन वा॥ 1-179-11(8116)
वैशम्पायन उवाच। 1-179-12x(1031)
एवं तैश्चोदितो राजन्स विप्रः पुरुषर्षभैः।
कथयामास तत्सर्वं द्रौपदीसंभवं तदा॥ ॥ 1-179-12(8117)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि ऊनाशीत्यधिकशततमोऽध्यायः॥ 179 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-179-7 याज्ञसेन्याः द्रौपद्याः॥ 7 ॥ ऊनाशीत्यधिकशततमोऽध्यायः॥ 179 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|